Parthiv Pujan Vidhi | पार्थिव शिव पूजन विधि | षोडशोपचार पूजन

 पार्थिव पूजन के लिए स्नान, संध्योपासन आदि नित्यकर्म से निवृत्त होकर शुभासनपर पूर्व या उत्तर की और मुख करके बैठें । पूजा की सामग्री को यथास्थान रख दें । अच्छी मिट्टी भी रख लें । भष्म का त्रिपुण्ड लगाकर रुद्राक्ष की माला धारण करें । पवित्री धारण कर कर्मपात्र पूजन- आचमन, प्राणायाम, पवित्रीकरण आदि करें । हाथ में अक्षत पुष्प लेकर स्वस्तिवाचन तथा गणपति-स्मरण करें । इसकेबाद दाहिने हाथ में अर्घ्यपात्र लेकर उसमें कुशत्रय, पुष्प, अक्षत, जल और द्रव्य लेकर निम्नलिखित संकल्प करें-

शिवपूजनम् संकल्प

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवश्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशान्तर्गते अमुकक्षेत्रे अमुक संख्याके विक्रमाब्दे बौद्धावतारे अमुक नामसंवत्सरे अमुकायने अमुकऋतौ महामङ्गल्य प्रदेमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रः अमुकशर्मा (अमुकवर्मा, अमुकगुप्तः) सपत्नीकोऽहं ममाऽऽत्मनः कायिक-वाचिक मानसिक-सांसर्गिक-चतुर्विधपापक्षयपूर्वकं आध्यात्मिक आधिदैविक आधिभौतिक-त्रिविधतापनिवृत्यर्थम्, आयुरारोग्यैश्वर्यादिवृद्ध्यर्थम् श्रुति-स्मृति-पुराणोक्तफलप्राप्तिपूर्वकं च धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिद्धिद्वारा श्री साम्बसदाशिवप्रीतये पार्थिवशिवलिङ्गोपरि (अमुकलिङ्गोपरि) यथोपचारैः षडङ्गन्यास पूर्वकं पार्थिव शिवपूजनं (दुग्धधारया जलधारया वा एकादशब्राह्मण द्वारा (अमुकसंख्याकब्राह्मणद्वारा) सकृद्-रुद्रावर्तनेन (रुद्रैकादशिन्या वा) महारुद्रेण अभिषेकाख्यं कर्म करिष्ये । तदङ्गत्वेन नन्दीश्वरादिपूजनं (नन्दीश्वरं - वीरभद्रंस्वामिकार्तिकंकुबेरं-कीर्तिमुख) च करिष्ये तत्रादौ निर्विघ्नतासिध्यर्थं गणेशाम्बिकयोः पूजंन च करिष्ये ।'

इस प्रकार संकल्प करने के बाद निम्नलिखित मंत्र से भूमि की प्रार्थना करें ।

भूमि-प्रार्थना

ॐ सर्वाधारे धरे देवि त्वद्रूपां मृत्तिकामीमाम् ।
ग्रहीष्यामि प्रसन्ना त्वां लिङ्गार्थं भव सुप्रभे ।।

मिट्टी का ग्रहण

ॐ उद्धृतासि वराहेण कृष्णेन शतबाहुना।
मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च ॥ 

'ॐ हराय नमः'- यह मन्त्र पढ़कर मिट्टी ले। मिट्टी को अच्छी तरह देखकर कंकड़ आदि निकाल दे। कम-से-कम १२ ग्राम मिट्टी हो। जल मिलाकर मिट्टी को गूंथ ले।

लिङ्ग का गठन

 'ॐ महेश्वराय नमः' कहकर लिङ्ग का गठन करें । यह अँगूठे से न छोटा हो और न बित्ते से बड़ा । मिट्टी की नन्हीं-सी गोली बनाकर लिङ्ग के ऊपर रखे। यह 'वज्र' कहलाता है। काँसा आदि के पात्र में बिल्वपत्र रखकर उसपर निम्नलिखित मन्त्र पढ़कर लिङ्ग की स्थापना करें ।

इसके बाद षडङ्गन्यास करें।

पार्थिव पूजन , Parthiv pujan vidhi
पार्थिव शिव पूजन विधि



षडङ्गन्यासः

मनो जूतिरिति मन्त्रस्य बृहस्पतिर्ऋषिः बृहतीछन्दः बृहस्पतिर्देवता हदयन्यासे विनियोगः ।

ॐ मनो जूतिर्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनो त्वरिष्टं य्यज्ञ समिमं दधातु । विश्वे देवास ऽइह मादयन्तामो३ प्रतिष्ठ ।। ॐ हृदयाय नमः ॥१॥

अबोद्ध्यग्निरिति मन्त्रस्य बुधगविष्ठिरा ऋषिः अग्निर्देवता त्रिष्टुप् छन्दः शिरसिन्यासे विनियोगः ।

ॐ अबोद्ध्यग्निः समिधा जनानां प्रति धेनुमिवा यतीमुषासम्।। यह्वा ऽइव प्प्रवया मुज्जिहानाः प्रभानवः सिस्रते नाकमच्छ ।। ॐ शिरसे स्वाहा ॥२॥

मूर्धानमिति मन्त्रस्य भरद्वाज ऋषिः अग्निर्देवता त्रिष्टुप् छन्दः शिखान्यासे विनियोग : ।

ॐ मूर्द्धानं दिवो ऽअरतिं पृथिव्या व्वैश्वानरमृत ऽआजातमग्निम्। कवि सम्म्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ।। ॐ शिखायै वषट् ।।३।।

मर्माणिते इति मन्त्रस्य अप्रतिरथ ऋषिः मर्माणि देवता विराट छन्दः कवचन्यासे विनियोगः । 

ॐ मर्म्माणि ते व्वर्म्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्व्वरीयो व्वरुणस्ते कृणोतु जयन्तन्त्वा नु देवा मदन्तु ।। ॐ कवचाय हुम् ।।४।।

विश्वतश्चक्षुरिति मन्त्रस्य विश्वकर्मा भौवन ऋषिः विश्वकर्मा देवता त्रिष्टुप्छन्दः नेत्रन्यासे विनियोगः ।

ॐ व्विश्वतशच्चक्षुरुत विश्वतोमुखो व्विश्वतोबाहुरुत विश्वतस्प्पात् । सं बाहुब्भ्यान्धमति सम्पतत्रैर्द्यावाभूमीं जनयन्देव ऽएकः ।।ॐ नेत्रत्रयाय वौषट् ॥५॥

मानस्तोके इति मन्त्रस्य परमेष्ठी ऋषिः एको रुद्रो देवता जगती छन्दः अस्त्रन्यासे विनियोगः ।

ॐ मानस्तोके तनये मा न ऽआयुषि मा नो गोषु मा नो ऽअश्वेषुरीरिषः मा नो व्वीरान् रुद्र भामिनो व्वधीर्हविष्म्मन्तः सदमित्त्वा हवामहे ।। ॐ अस्त्राय फट् ॥६॥




पार्थिवलिङ्ग पूजने विनियोगः 

ॐ अस्य श्रीशिवपञ्चाक्षरमन्त्रस्य वामदेव ऋषिरनुष्टुपछन्दः श्रीसदाशिवो देवता, ओङ्कारो बीजम्, नमः शक्तिः शिवाय इति कीलकम्, मम साम्बसदाशिवप्रीत्यर्थं न्यासे पार्थिवलिङ्गपूजने जपे च विनियोगः ।

प्राणप्रतिष्ठा विनियोगः

ॐ अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुः सामानिच्छन्दांसि, क्रियामयवपुः प्राणाख्यो देवता आँ बीजं ह्रीं शक्तिः क्रों कीलकं सदा शिव प्राणप्रतिष्ठापने विनियोगः ।


प्राणप्रतिष्ठा-

हाथ में पुष्प लेकर उसे मूर्तिपर स्पर्श करते हुए नीचे लिखे मन्त्र बोलें –

ॐ ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि ।
ॐ ऋग्यजु: सामच्छन्दोभ्यो नमः, मुखे ।
ॐ प्राणाख्यदेवतायै नमः, हृदि ।
ॐ आँ बीजाय नमः, गुह्ये ।
ॐ ह्रीं शक्त्यै नमः, पादयोः ।
ॐ क्रौं कीलकाय नमः, सर्वाङ्गेषु ।।

इस प्रकार न्यास करके पुनः पार्थिव लिङ्गका स्पर्श करें –

ॐ आँ ह्रीं क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहं शिवस्य प्राणा इह प्राणाः ।

ॐ आँ ह्रीं क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहं शिवस्य जीव इह स्थितः इति जीवः ।

ॐ आँ ह्रीं क्रौं यँ रँ लँ वँ शँ षँ सँ हँ सः सोऽहं शिवस्य सर्वेन्द्रियाणि वाङ्मनस्त्वक्चक्षुः श्रोत्रघ्राणजिह्वापाणिपादपायूपस्थानि इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।

तदनन्तर अक्षत से आवाहन करें । 

ॐ भूः पुरुषं साम्बसदाशिवमावाहयामि ।
ॐ भुवः पुरुषं साम्बसदाशिवमावाहयामि।
ॐ स्वः पुरुषं साम्बसदाशिवमावाहयामि ।

ॐ स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्त्वम्प्रीतिभावेन लिङ्गेऽस्मिन् संनिधिं कुरु ।।

गणपति-पूजनम्

ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रयपति हवामहे निधीनां त्वा निधिपति हवामहे व्वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ।।

इति षोडशोपचारै: सम्पूज्य प्रार्थयेत् ।।

ॐ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्व्रातेभ्यो व्व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरुपेभ्यो विश्वरुपेभ्यश्च वो नमः ।।

पार्वती-पूजनम् 

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।।

अम्बिका का पूजन कर निम्न मन्त्र से प्रार्थना करें –

ॐ अम्बेऽअम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्द्रिकां काम्पीलवासिनीम् ।।

नंदीश्वर-पूजनम्

ॐ आशुः शिशानो व्वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । सङ्क्रन्दनोनिमिषऽएकवीरः शतᳯ सेना ऽअजयत्साकमिन्द्रः ।।

इस प्रकार यथा लब्धोपचार से वीरभद्र का पूजन करें अधोलिखित प्रार्थना करें :

ॐ प्रैतु व्वाजी कनिक्क्रदन्नानदद्रासभः पत्त्वा । भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरा ॥

वीरभद्र पूजनम् 

ॐ भद्द्रं कर्ण्णेभिः शृणुयाम देवा भद्द्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ।।

वीरभद्र का पूजन कर प्रार्थना करें –

ॐ भद्द्रो नो ऽअग्निराहुतो भद्द्रा रातिः सुभग भद्द्रो ऽअध्वरः । भद्द्रा ऽउत प्रशस्तयः ।।


स्वामिकार्तिक - पूजनम् 

ॐ यदक्क्रन्दः प्प्रथमं जायमान ऽउद्यन्त्समुद्द्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू ऽउपस्तुत्यं महि जातं ते ऽअर्व्वन् ।।

पूजन के पश्चात प्रार्थना करें ।

ॐ यत्र बाणाः सम्पतन्ति कुमारा व्विशिखा ऽइव । तन्न ऽइन्द्रो बृहस्पतिरदितिः शर्म्म यच्छतु व्विश्वाहा शर्म यच्छतु ।।


कुबेर-पूजनम् 

ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्व्वं व्वियूय । इहेहैषां कुणुहि भोजनानि ये वर्हिषो नम ऽउक्तिं यजन्ति।।

कुबेर का पूजन कर प्रार्थना करें –

ॐ व्वय सोम व्व्रते तव मनस्तनूषु व्विभ्रतः । प्रजावन्तः सचेमहि ।


कीर्तिमुख-पूजनम् –

ॐ असवे स्वाहा व्वसवे स्वाहा व्विभुवे स्वाहा व्विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहा भिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा स सर्प्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा ।

कीर्तिमुख का पूजन कर प्रार्थना करें –

ॐ ओजश्च मे सहश्च म ऽआत्मा च मे तनूश्च मे शर्म्म च मे व्वर्म्म च मेङ्गानि च मेस्थीनि च मे परूषि च मे शरीराणि च म ऽआयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ।।

सर्प का पूजन निम्नलिखित मन्त्र से प्रार्थना करें –

ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये ऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ।।


ध्यानम्

ध्यायेनित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ।।


आवाहनम् 

ॐ नमस्ते रूद्द्र मन्यव ऽउतो त ऽइषवे नमः । बाहुब्भ्यामुत ते नमः॥

आयाहि भगवशभो शर्व त्वं गिरिजापते ।
प्रसन्नो भव देवेश नमस्तुभ्यं हि शंकर ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः आवाहनार्थे पुष्पं समर्पयामि।


आसनम्

ॐ या ते रुद्र शिवा तनूरघोरापापकाशिनी । तयानस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ।।

विश्वेश्वर महादेव राजराजेश्वरप्रिये ।
आसनम् दिव्यमीशाना दास्येऽहं तुभ्यमीश्वर ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः । आसनार्थे अक्षतान् समर्पयामि।

पाद्यम्

ॐ गायत्री त्रिष्टुब्जगत्यनुष्टुप्पंक्त्या सह । बृहत्युष्णिहा ककुप् सूचीभिः शम्यन्तुत्वा ।।

महादेव महेशान महादेव परात्पर ।
पाद्यं गृहाण मद्दत्तं पार्वतीसहितेश्वर ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, पाद्यं समर्पयामि ।

अर्घ्यम्

नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो येऽ अस्य सत्त्वानोहन्तेभ्यो-करन्नमः ।।

त्र्यंबकेश सदाचार जगदादिविधायक ।
अर्घ्यं गृहाण देवेश साम्ब सर्वार्थदायक ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः अर्घ्यम् समर्पयामि ।

आचमनम्

ॐ त्र्यम्बकं यजामहे सुगन्धि म्पुष्टिवर्धनम् । उर्व्वारुकमिव बन्धनान्मृत्योर्म्मुक्षीयमामृतात् ॥

सर्वतीर्थसमायुक्तं सुगन्धिं निर्मलं जलम् ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, आचमनीयं जलं समर्पयामि।

मधुपर्कः

यन्मुधुनो मधव्यं परम रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योन्नादोसानि ॥

आज्यं दधि मधु श्रेष्ठं पात्रयुग्मसमन्वितम् ।
मधुपर्क गृहाण त्वं प्रसन्नो भव शङ्कर ।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, मधुपर्क समर्पयामि ।

स्नानम्

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ।।

गङ्गा-सरस्वती-रेवा- पयोष्णी- नर्मदाजलैः ।
स्नापितोऽसि मया देव तथा शान्तिं प्रयच्छ मे ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, स्नानीयं जलं समर्पयामि।

पयः स्नानम्

ॐ पयः पृथिव्यां पय ऽओषधीषु पयो दिव्यन्तरिक्षे पयो धाः। पयस्वतीः प्प्रदिशः सन्तु मह्यम् ।।

कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानर्थमर्पितम् ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः पयः स्नानं समर्पयामि । पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

दधिस्नानम्

ॐ दधिक्राब्णोऽअकारिषं जिष्णोरश्वस्य व्वाजिनः। सुरभि नो मुखा करत् प्रण ऽआयूषि तारिषत् ।।

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः दधिस्नानं समर्पयामि । दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

घृतस्नानम्

ॐ घृतं मिमिक्षे घृतमस्य योनिघृते श्रितो घृतम्बस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ व्वक्षि हव्यम् ।।

नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् ।
घृतं तुभ्यं प्रदास्मामि स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, घृतस्नानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

मधुस्नानम्

ॐ मधु व्वाता ऽऋतायते मधु क्षरन्ति सिन्धवः । माद्ध्वीर्न्न: सन्त्वोषधीः ।। मधु नक्तमुतोषसो मधुमत्पार्थिव रजः। मधु द्यौरस्तु नः पिता । मधुमान्नो व्वनस्पतिर्मधुमाँ२ ऽअस्तु सूर्यः । माद्ध्वीर्ग्गावो भवन्तु नः ।

दिव्यैः पुष्पैः समुद्भूतं सर्वगुणसमन्वितम् ।
मधुरं मधुनामाढ्यं स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, मधुस्नानंसमर्पयामि । मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

शर्करास्नानम्

ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम्। अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोसीन्द्राय त्त्वा जुष्टं गृहणाम्येष ते योनिरिन्द्रायत्त्वा जुष्टतमम् ।।

इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, शर्करास्नानं समर्पयामि । शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

पञ्चामृतस्नानम्

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेभवत्सरित् ॥

पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, पञ्चामृत स्नानं समर्पयामि ।

शुद्धोदकस्नानम्

ॐ शुद्धवालः सर्व्वशुद्धवालो मणिवालस्त ऽआश्विनाः । श्येतः श्येताक्षोरुणस्ते रुद्राय पशुपतये कर्णा यामा ऽअवलिप्ता रौद्द्रा नभोरूपाः पार्ज्जन्याः ।।

गङ्गा गोदावरी रेवा पयोष्णी यमुना तथा ।
सरस्वती तीर्थजातं स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भवः स्वः भगवते श्री साम्बसदाशिवाय नमः, शुद्धोदक स्नानं समर्पयामि ।

अभिषेकः

शुद्धोदक स्नानं पश्चात् शिव की मूर्ति पर निम्नलिखित सोलह मन्त्रों से दुग्ध अथवा जलधारा द्वारा अभिषेक करें ।

अभिषेक मंत्रा:

ॐ नमस्ते रुद्र मन्यव ऽउतो त ऽइषवे नमः । बाहुभ्यामुत ते नमः ।।१॥ या ते रुद्र शिवा तनूरघोरापापकाशिनी । तया नस्तन्न्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥२॥ यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवाङ्गिरित्र तां कुरु मा हि सीः पुरुषञ्जगत् ।।३।। शिवेन व्वचसा त्वा गिरिशाच्छा व्वदामसि । यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥४॥ अद्ध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योधराचीः परा सुव ॥५॥ असौ यस्ताम्म्रो ऽअरुण उत बभ्रुः सुमङ्गलः । ये चैन रुद्रा ऽअभितो दिक्षु श्रिताःसहस्रशोवैषाहेडऽ ईमहे ॥६॥ असौ योवसर्पति नीलग्रीवो व्विलोहितः । उतैनङ्गोपाऽ अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥७।। नमोस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो येऽ अस्य सत्त्वानोहन्तेभ्यो-करन्नमः ॥८॥ प्रमुञ्च धन्वनस्त्वमुभयो रात्न्योर्ज्याम् । याश्च ते हस्त इषवः पराता भगवो व्वप ॥९।। विज्यन्धनुः कपर्दिनो विशल्यो बाणवाँ २ ऽउत । अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधिः ॥१०॥ या ते हेतिर्म्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान्विश्व्वतस्त्वमयक्ष्मया परि भुज ।।११।। परिते धन्न्वनो हेतिरस्मान् वृणक्तु व्विश्वतः । अथो यऽ इषुधिस्तवारे ऽअस्मन्निधेहि तम् ॥१२॥ अवतत्य धनुष्टवसहस्राक्ष शतेषुधे । निशीर्य शल्यानाम्मुखो शिवो नः सुमना भव ॥१३॥ नमस्त ऽआयुधायानातताय धृष्णवे । उभाब्भ्यामुत ते नमो बाहुभ्यान्तव धन्वने ।।१४।। मा नो महान्तमुत मा नोऽ अर्भकम्मा नऽ उक्षन्तमुत मा नऽ उक्षितम् । मानो व्वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ।।१५।। मा नस्तोके तनये मा नऽ आयुषि मा नो गोषु मा नोऽ अश्वेषु रीरिषः । मा नो व्वीरान्रुद्र भामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे ।।१६।।

अभिषेकं समर्पयामि

गन्धोदकस्नानम्

ॐ त्वां गन्धर्व्वा ऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः । त्वामोषधे सोमो राजा व्विद्वान्यक्ष्मादमुच्यत ।।

मलयाचलसम्भूतं चन्दनागरुसम्भवम् ।
चन्दनं देव देवेश स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, गन्धोदक स्नानं समर्पयामि ।

विजयास्नानम्

ॐ व्विज्जयं धनुः कपर्द्दिनो व्विशल्यो वाणवाँ२ ऽउत । अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधिः ॥

शिवप्रीतिकरं रम्यं दिव्यभावसमन्वितम् ।
विजयाख्यं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः विजयां समर्पयामि । विजयास्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

वस्त्रम्

ॐ प्रमुञ्च धन्वनस्त्वमुभयो रात्न्योर्ज्याम् । याश्च ते हस्त इषवः पराता भगवो व्वप ॥

शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् ।
देहालङ्कारणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ 

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, वस्त्रं समर्पयामि ।

उपवस्त्रम्

ॐ सुजातो ज्ज्योतिषासह शर्म्म व्वरूथ मा सदत्स्वः । व्वासो ऽअग्ने व्विश्वरूप संव्ययस्व विभावसो ।। 

उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।
भक्त्या समर्पितं देवं प्रसीद परमेश्वर ॥

ॐ भूर्भवः स्वः भगवते श्री साम्बसदाशिवाय नमः, उपवस्त्रं समर्पयामि ।

यज्ञोपवीतम्

ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेन आवः । स बुद्धन्याऽ उपमा अस्य व्विष्ठाः सतश्च योनिमसतश्च व्विवः ।।

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण देवतामयम् ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

गन्धम् (चन्दनम्)

ॐ नमः श्वब्भ्यः श्वपतिब्भ्यश्च वो नमो नमो भवाय च रुद्द्राय च नमः शार्व्वा च पशुपतये च नमो नीलग्ग्रीवाय च शीतिकण्ठाय च ।

श्रीखण्ड चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, गन्धं समर्पयामि ।

भस्म

ॐ प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने । स सृज्ज्य मातृभिष्ट्वं ज्ज्योतिष्मान् पुनरासदः ।।

सर्वपापहरं भस्म दिव्यज्योतिः समप्रभम ।
सर्वक्षेमकरं पुण्यं गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, भस्मं समर्पयामि ।

अक्षताः

ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।

अक्षताश्च सुरश्रेष्ठाः कुङ्कुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, अक्षतान् समर्पयामि ।।

पुष्पम्

ॐ नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय च कूल्याय च नमः शष्ष्याय च फेन्याय च ।।

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽनीतानि पुष्पाणि गृहाण परमेश्वर ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, पुष्पं समर्पयामि ।

पुष्पमालां

ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा ऽइव सजित्त्वरीर्वीरुधः पारयिष्णवः ।

नानापंकजपुष्पैश्च ग्रथितां पल्लवैरपि ।
विल्वपत्रयुतां मालां गृहाण सुमनोहराम् ॥

ॐ भूर्भुवः स्वः भगवते श्रीसाम्बसदाशिवाय नमः, पुष्पमालां समर्पयामि ।

बिल्वपत्रम्

ॐ नमो बिल्मिने च कवचिने च नमो व्वर्मिणे च व्वरूथिने च नमः श्रुताय च श्श्रुतसेनाय च नमो दुन्दुब्भ्याय चाहनन्याय च ।।

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च विधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥१॥

काशीवासनिवासी च कालभैरवपूजनम् ।
प्रयागेमाघ मासे च बिल्वपत्रं शिवार्पणम् ॥२॥

दर्शनं विल्वपत्रस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं बिल्वपत्रं शिवार्पणम् ॥३॥

अखण्डैर्बिल्वपत्रैश्च पूजयेच्छिवशङ्करम् ।
कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥४॥

गृहाण बिल्वपत्राणि सपुष्पाणि महेश्वरः ।
सुगन्धीनि भवानीश शिव त्वं कुसुमप्रियः ।।५।।

त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि गृहाण परमेश्वर ॥६॥

अमृतोद्भवश्रीवृक्षं शङ्करस्य सदा प्रियम् ।
तत्ते शम्भो प्रयच्छामि ब्लिवपत्रं सुरेश्वर ॥८॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, बिल्वपत्राणि समर्पयामि ।

दूर्वां

ॐ काण्डात् काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्व्वे प्प्रतनु सहस्रेण शतेन च ।।

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, दूर्वाङकुरान् समर्पयामि।

शमी

ॐ अग्नेस्तनूरसि व्वाचो व्विसर्ज्जनं देववीतये त्त्वा गृहणामि बृहद्ग्रावासि व्वानस्पत्यः स ऽइदं देवेब्भ्यो हविः शमीष्व सुशमि शमीष्व । हविष्कृदेहि हविष्कृदेहि ।।

अमङ्गलानां च शमनीं शमनीं दुष्कृतस्य च ।
दुः स्वप्ननाशिनी धन्यां प्रपद्येऽहं शमी शुभाम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, शमीपत्राणि समर्पयामि।

तुलसी-मञ्जरीम्

ॐ शिवो भव प्प्रजाब्भ्यो मानुषीब्भ्यस्त्वमङ्गिरः । मा द्यावापृथिवी ऽअभिशोचीमान्तरिक्षम्मा व्वनस्पतीन् ।।

मिलत्परिमलामोदभृङ्गसङ्गीतसंस्तुताम् ।
तुलसीमञ्जरी मञ्जु अञ्जसा स्वीकुरु प्रभो ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, तुलसीमञ्जरी समर्पयामि ।

आभूषणम्

ॐ युवं तमिन्द्रापर्व्वता पुरोयुधा यो नः ऽएतन्यादप तन्तमिद्धतं व्वज्रेण तन्तमिद्धतम् । दूरे चत्ताय छन्त्सद् गहनं यदिनक्षत् ।।
वज्र-माणिक्य-वैदूर्य मुक्ताविद्रुममण्डितम् ।
पुष्पराग समायुक्तं भूषणं प्रतिगृह्याताम् ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, आभूषणं समर्पयामि ।

नानापरिमलद्रव्याणि

ॐ अहिरिव भोगैः पर्य्येति बाहुँ ज्याया हेतिं परिबाधमानः। हस्तघ्नो व्विश्वा व्वयुनानि व्विद्वान् पुमान् पुमासं परिपातु विश्वतः।।

अबीरं च गुलालं च हरिद्रादिसमन्वितम् । 
नानापरिमलं द्रव्यं गृहाण परमेश्वर ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, नानापरिमल द्रव्यं समर्पयामि ।

सिन्दूरम्

ॐ सिन्धोरिव प्प्राद्ध्वने शूघनासो व्वातप्प्रमियः पतयन्ति यह्वा: । घृतस्य धारा ऽअरुषो न व्वाजी काष्ठ काष्ठ्ठा  भिन्दन्नूर्म्मिभिः पिन्वमानः ।।

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्द्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, सिन्दूरं समर्पयामि ।

सुगन्धिद्रव्यम्

ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्ट्टि वर्धनम् । उर्व्वारुकमिव बन्धनान्मृत्योर्म्मुक्षीयमामृतात् ।।

दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं स्वीकुरु शङ्कर ।।

ॐ भूर्भुवः स्वः भगवते साम्बसदाशिवाय नमः, सुगन्धिद्रव्यं समर्पयामि ।

अङ्गपूजनम्

ॐ ईशानाय नमः पादौ पूजयामि ।।१।।

ॐ शङ्कराय नमः जंघे पूजयामि ।। २।।

ॐ शूलपाणये नमः गुल्फौ पूजयामि ।।३।।

ॐ शम्भवे नमः कटिं पूजयामि ॥४॥

ॐ स्वयम्भुवे नमः गुह्यं पूजयामि ।।५।।

ॐ महादेवाय नमः नाभिं पूजयामि ।।६।।

ॐ विश्वककर्त्रे नमः उदरं पूजयामि ॥७॥

ॐ सर्वतोमुखाय नमः पार्श्वे पूजयामि ।।८।।

ॐ स्थाणवे नमः स्तनौ पूजयामि ।।९।।

ॐ नीलकण्ठाय नमः कण्ठं पूजयामि ।।१०।।

ॐ शिवात्मने नमः मुखं पूजयामि ।।११।।

ॐ त्रिनेत्राय नमः नेत्रे पूजयामि ।।१२।।

ॐ नागभूषणाय नमः शिरः पूजयामि ।।१३।।

ॐ देवाधिदेवाय नमः सर्वाङ्गं पूजयामि ।।१४।।

एकादशरुद्रपूजनम्

ॐ अघोराय नमः ।।१।।

ॐ पशुपतये नमः ।।२।।

ॐ शिवाय नमः ।।३।।

ॐ विरूपाय नमः ।।४।।

ॐ विश्वरूपाय नमः ।।५।।

ॐ भैरवाय नमः ।।६।।

ॐ त्र्यम्बकाय नमः ।।७।।

ॐ शूलपाणये नमः ।।८।।

ॐ कपर्दिने नमः ।।९।।

ॐ ईशानाय नमः ।।१०।।

ॐ महेशाय नमः ।।११।।

एकादशशक्ति पूजनम्

ॐ भगवत्यै नमः ।।१।।

ॐ उमादेव्यै नमः ।।२।।

ॐ शङ्करप्रियायै नमः ।।३।।

ॐ पार्वत्यै नमः ।।४।।

ॐ गौर्यै नमः ।।५।।

ॐ कालिन्द्यै नमः ।।६।।

ॐ काटिव्यै नमः ।।७।।

ॐ विश्वधारिण्यै नमः ।।८।।

ॐ विश्वेश्वर्यै नमः ।।९।।

ॐ विश्वमात्रे नमः ।।१०।।

ॐ शिवायै नमः ।।११।।

गण पूजनम्

ॐ गणपतये नमः ।।१।।

ॐ कार्तिकाय नमः ।।२।।

ॐ पुष्पदन्ताय नमः ।।३।।

ॐ कपर्दिने नमः ।।४।।

ॐ भैरवाय नमः ।।५।।

ॐ शूलपाणये नमः ।।६।।

ॐ ईश्वराय नमः ।।७।।

ॐ दण्डपाणये नमः ।।८।।

ॐ नन्दिने नमः ।।९।।

ॐ महाकालाय नमः ।।१०।।

अष्टमूर्ति पूजन

ॐ शर्वाय क्षितिमूर्त्तये नमः (प्राच्याम्)

ॐ भवाय जलमूर्त्तये नमः (ऐशान्याम्)

ॐ रुद्राय अग्निमूर्त्तये नमः (उदीच्याम्)

ॐ उग्राय वायुमूर्त्तये नमः (वायव्याम्)

ॐ भीमाय आकाशमूर्त्तये नमः (प्रतीच्याम)

ॐ पशुपतये यजमानमूर्त्तये नमः (नैर्ऋत्याम्)

ॐ महादेवाय समोमूर्त्तये नमः (दक्षिणस्याम्)

ॐ ईशानाय सूर्यमूर्त्तये नमः (आग्नेयाम्)

अष्टोत्तरशतनामभिः शिवार्चनम्

ॐ अस्य श्रीशिवाष्टोत्तरशतनाममन्त्रस्य नारायणऋषिः अनुष्टप् छन्दः श्रीसदाशिवो देवता गौरी उमाशक्तिः श्रीसाम्बसदाशिवप्रीतये अष्टोत्तरशतनामभिः शिवपूजने विनियोगः ।

शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वाधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम्।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ।।

१. ॐ शिवाय नमः ।

२. ॐ महेश्वराय नमः ।

३. ॐ शम्भवे नमः ।

४. ॐ पिनाकिने नमः ।

५. ॐ शशिशेखराय नमः ।

६. ॐ वामदेवाय नमः ।

७. ॐ विरूपाक्षाय नमः ।

८. ॐ कपर्दिने नमः 

९. ॐ नीललोहिताय नमः ।

१०. ॐ शङ्कराय नमः ।

११. ॐ शूलपाणये नमः ।

१२. ॐ खट्वाङ्गिने नमः ।

१३. ॐ विष्णुवल्लभाय नमः ।

१४. ॐ शिपिविष्टाय नमः ।

१५. ॐ अम्बिकानाथाय नमः ।

१६. ॐ श्रीकण्ठाय नमः ।

१७. ॐ भक्तवत्सलाय नमः ।

१८. ॐ भवाय नमः । 

१९. ॐ शर्वाय नमः ।

२०. ॐ त्रिलोकीनाथाय नमः ।

२१. ॐ शितिकण्ठाय नमः ।

२२. ॐ शिवाप्रियाय नमः ।

२३. ॐ उग्राय नमः ।

२४. ॐ कपालिने नमः ।

२५. ॐ कामारये नमः ।

२६. ॐ अन्धकासुरसूदनाय नमः ।

२७. ॐ गङ्गाधराय नमः ।

२८. ॐ ललाटाक्षाय नमः ।

२९. ॐ कालकालाय नमः ।

३०. ॐ कृपानिधये नमः ।

३१. ॐ भीमाय नमः ।

३२. ॐ परशुहस्ताय नमः ।

३३. ॐ मृगपाणये नमः ।

३४. ॐ जटाधराय नमः ।

३५. ॐ कैलासवासिने नमः ।

३६. ॐ कवचिने नमः ।

३७. ॐ कठोराय नमः ।

३८. ॐ त्रिपुरान्तकाय नमः ।

३९. ॐ वृषाङ्काय नमः ।

४०. ॐ वृषभारूढ़ाय नमः ।

४१. ॐ भस्मोद्धूलितविग्रहाय नमः ।

४२. ॐ सामप्रियाय नमः ।

४३. ॐ स्वरमयाय नमः ।

४४. ॐ त्रिमूर्तये नमः ।

४५. ॐ अश्विनीश्वराय नमः ।

४६. ॐ सर्वज्ञाय नमः ।

४७. ॐ परमात्मने नमः ।

४८. ॐ सोमसूर्याग्नि लोचनाय नमः ।

४९. ॐ हविषे नमः ।

५०. ॐ यज्ञमयाय नमः ।

५१. ॐ पञ्चवकत्राय नमः ।

५२. ॐ सदाशिवाय नमः ।

५३. ॐ विश्वेश्वराय नमः ।

५४. ॐ वीरभद्राय नमः ।

५५. ॐ गणनाथाय नमः ।

५६. ॐ प्रजापतये नमः ।

५७. ॐ हिरण्यरेतसे नमः ।

५८. ॐ दुर्द्धर्षाय नमः ।

५९. ॐ गिरीशाय नमः ।

६०. ॐ गिरिशाय नमः ।

६१. ॐ अनघाय नमः ।

६२. ॐ भुजङ्गभूषणाय नमः ।

६३. ॐ भर्गाय नमः ।

६४. ॐ गिरिधन्वने नमः ।

६५. ॐ गिरिप्रियाय नमः ।

६६. ॐ अष्टमूर्त्तये नमः ।

६७. ॐ अनेकात्मने नमः ।

६८. ॐ सात्त्विकाय नमः ।

६९. ॐ शुभविग्रहाय नमः ।

७०. ॐ शाश्वताय नमः ।

७१. ॐ खण्डपरशवे नमः ।

७२. ॐ अजाय नमः ।

७३. ॐ पाशविमोचकाय नमः ।

७४. ॐ कृतिवाससे नमः ।

७५. ॐ पुरारातये नमः ।

७६. ॐ भगवते नमः ।

७७. ॐ प्रमथाधिपाय नमः ।

७८. ॐ मृत्युञ्जयाय नमः ।

७९. ॐ सूक्ष्मतनवे नमः ।

८०. ॐ जगद्व्यापिने नमः ।

८१. ॐ जगद्गुरवे नमः ।

८२. ॐ जनकाय नमः ।

८३. ॐ चारुविक्रमाय नमः ।

८४. ॐ रुद्राय नमः ।

८५. ॐ भूतपतये नमः ।

८६. ॐ स्थाणवे नमः ।

८७. ॐ अहिर्बुध्न्याय नमः ।

८८. ॐ दिगम्बराय नमः ।

८९. ॐ मृडाय नमः ।

९०. ॐ पशुपतये नमः ।

९१. ॐ देवाय नमः ।

९२. ॐ महादेवाय नमः ।

९३. ॐ अव्ययाय नमः ।

९४. ॐ हरये नमः ।

९५. ॐ पुष्पदन्तभिदे नमः ।

९६. ॐ भगनेत्रभिदे नमः ।

९७. ॐ अपवर्गप्रदाय नमः ।

९८. ॐ अव्यग्राय नमः ।

९९. ॐ अव्यक्ताय नमः ।

१००. ॐ अनन्ताय नमः ।

१०१. ॐ दक्षाध्वरहराय नमः ।

१०२. ॐ सहस्राक्षाय नमः ।

१०३. ॐ तारकाय नमः । 

१०४. ॐ हराय नमः ।

१०५. ॐ सहस्रपदे नमः ।

१०६. ॐ श्रीपरमेश्वराय नमः ।

१०७. ॐ व्रताधिपाय नमः ।

१०८. ॐ जगते नमः ।

मन्दारमालाङ्कुलितालकायै कपालमालाङ्कितशेखराय । 
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ।।

धूपः

ॐ नमः कपर्दिने च व्युत्पकेशाय च नमः सहस्राक्षाय च शतधन्वने च । नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चे षुमते च ।।

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्ब० नमः, धूपमाघ्रापयामि ।

दीपम्

ॐ नमः आशवे चाजिराय च नमः शीग्घ्र्यया च शीभ्याय च नमः । उर्म्याय चावसन्याय च नमो नादेयाय च द्विप्याय च ।।

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्येतिमिरापहम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्ब० नमः, दीपं दर्शयामि। हस्तप्रक्षालनम्।

नैवेद्यम्

ॐ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चा परजाय च । नमो मद्ध्यमाय चा पगल्भाय च नमो जघन्याय च बुध्न्याय च ।।

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारो भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यम् ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, नैवेद्यं निवेदयामि । 

ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ समानाय स्वाहा ।

ऋतुफलानि

ॐ याः फलिनीर्य्या- ऽअफला ऽअपुष्पायाश्च्च पुष्पिणीः । बृहस्पतिप्प्रसूतास्ता नो मुञ्चन्त्वहसः ।।

फलेन फलितं सर्वं त्रैलोक्यं स चराचरम् ।
तस्मात् फलप्रदानेन पूर्णाः सन्तुमनोरथाः ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्ब० नमः ऋतुफलानि समर्पयामि ।

धत्तूरफलानि

ॐ कार्षिरसि समुद्द्रस्य त्वा क्षित्या ऽउन्नयामि । समापो ऽअद्भिरग्मत समोषधीभिरोषधीः ।।

धीरधैर्यपरीक्षार्थं धारितं परमेष्ठिना ।
धत्तूरं कण्टकाकीर्ण गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः,धत्तूरफलं समर्पयामि ।

ताम्बूलम् (सुपारी)

ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मती: यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ।।

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्ब० नमः, मुखवासार्थे ताम्बूलं सम०।

दक्षिणा

ॐ मा नो महान्तमुत मा नो ऽअअर्ब्भकं मा न ऽउक्षन्तमुत मा न ऽउक्षितम् । मा नो व्वधीः पितरम्मोत मातरं मा नः प्प्रियास्तन्वो रुद्द्ररीरिषः ।।

दक्षिणा स्वर्णसहिता यथाशक्ति समर्पिता ।
अनन्तफलदामेनां गृहाण परमेश्वर ॥

 ॐ भूर्भुवः स्वः भगवते श्री साम्बसदाशिवाय नमः, दक्षिणां समर्पयामि ।

साक्षतजलेन तर्पणं कार्यम् 

१. ॐ भवं देवं तर्पयामि ।

२. ॐ शर्वं देवं तर्पयामि ।

३. ॐ ईशानं देवं तर्पयामि ।

४. ॐ पशुपतिं देवं तर्पयामि ।

५. ॐ उग्रं देवं तर्पयामि ।

६. ॐ रुद्रं देवं तर्पयामि ।

७. ॐ भीमं देवं तर्पयामि ।

८. ॐ महान्तं देवं तर्पयामि ।

 

१. ॐ भवस्य देवस्य पत्नीं तर्पयामि ।

२. शर्वस्य देवस्य पत्नीं तर्पयामि ।

३. ॐ ईशानस्य देवस्य पत्नीं तर्पयामि ।

४. ॐ पशुपतेर्देवस्य पत्नीं तर्पयामि ।

५. ॐ उग्रस्य देवस्य पत्नीं तर्पयामि ।

६. ॐ रुद्रस्य देवस्य पत्नीं तर्पयामि ।

७. ॐ भीमस्य देवस्य पत्नीं तर्पयामि ।

८. ॐ महतो देवस्य पत्नीं तर्पयामि ।

नीराजनम्

ॐ आ रार्त्री पार्थिवरजः पितुरप्प्रायि धामभिः । दिवः सदासि बृहती व्वितिष्ठस ऽआ त्वेषं व्वर्त्तते तमः ।।१।।

ॐ इदहविः  प्प्रजननं मे ऽअस्तु दशवीर: सर्व्वगण स्वस्तये। आत्मसनि प्प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो ऽअस्मासु धत्त ।।२।।

ॐ अग्निर्द्देवता व्वातो देवता सूर्य्यो देवता चन्द्रमा देवता व्वसवो देवता रुद्द्रा देवतादित्या देवता मरुतो देवता व्विश्वेदेवा देवता बृहस्पतिर्द्देवतेन्द्रो देवता व्वरुणो देवता ।।३।।

ॐ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि ।।

आरती जय शिव ओमकारा

ॐ जय शिव ओकारा, जय शिव ओकारा ।
ब्रह्मा विष्णु सदाशिव अर्द्धङ्गी धारा ॥१॥
ॐ हर हर हर महादेव ॥

एकानन चतुरानन पञ्चानन राजै ।
हंसासन गरुडासन वृषवाहन साजै ॥२॥
 
ॐ हर..

दोय भुज चार चतुर्भुज दशभुज ते सोहे ।
तीनों रूप निरखता त्रिभुवन-जन मोहे ॥३॥
ॐ हर..

अक्षमाला वनमाला रुण्डमाला धारी ।

चन्दन मृगमद चन्दा भाले शुभकारी ॥४॥
ॐ हर..

श्वेताम्बर पीताम्बर बाघम्बर अङ्गे ।
सनकादिक ब्रह्मादिक भूतादिक सङ्गे ॥५॥
ॐ हर..

कर मध्ये सुकमण्डलु चक्रत्रिशूल धर्ता ।
जगकर्ता जगहर्ता" जगपालनकर्ता ॥६॥
ॐ हर..

ब्रह्मा विष्णु सदाशिव जानत अविवेका ।
प्रणवाक्षर ॐ मध्ये ये तीनो एका ॥७॥
ॐ हर..

काशीमें विश्वनाथ विराजत नन्दो ब्रह्मचारी ।
नित उठ दर्शन पावत महिमा अति भारी ॥८॥
ॐ हर..

त्रिगुण स्वामीकी आरति जो कोई नर गावै ।
भनत शिवानन्द स्वामी मनवाञ्छित फल पावै ॥९॥
ॐ हर..

मन्त्रपुष्पाञ्जलिः

ॐ यज्ञेन यज्ञमयजन्त देवस्तानि धर्म्माणि प्प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।

ॐ राजाधिराजाय प्रसह्य सायिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः । 

ॐ स्वस्ति । साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्, सार्वभौमः सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति ॥ तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति । ॐ विश्वतश्चक्षुरुत व्विश्वतो मुखो विश्वतो बाहुरूत विश्वतस्पात् । सम्बाहुब्भ्यां धमति सम्पतत्रैर्द्यावाभूमीं जनयन्देवऽएकः ॥

शिवगायत्री

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ।।

ॐ भूर्भुवः स्वः भगवते श्री साम्ब० नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।

प्रदिक्षणा  

शिव की अर्द्ध प्रदक्षिणा होती है । इसलिए अर्ध प्रदक्षिणा ही करें-

ॐ ये तीर्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषा सहस्रयोजनेवधन्न्वानि तन्न्मसि ॥
ॐ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्न्वाना ऽअबध्नन् पुरुषं पशुम् ।।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

प्रणामः

ॐ नमः शम्भवाय च मयो भवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।

असितगिरि समं स्यात्कज्जलं सिन्धुपात्रे ।
सुरतरुवरशाखा लेखनी पत्रमूर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानीमीश पारं न याति ।।
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं ।
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्य-शशाङ्क-वह्रिनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयञ्च वरदं वन्दे-शिवं शङ्करम् ।। २।।
वन्दे महेशं सुरसिद्धसेवितं भक्तैः सदा पूजितपादपद्मम् ।
ब्रह्मेन्द्रविष्णुप्रमुखैश्च वन्दितं ध्यायेत्सदा कामदुधं प्रसन्नम् ॥३॥

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम्।
नागं पाशं च घण्टां डमरुकसहितं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ।।४।।
श्मशानेष्वाक्रीड़ा स्मरहर पिशाचाः सहचरा
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तृणां वरद परमं मङ्गलमसि ।।५।।
त्रिनेत्राय नमस्तुभ्यं उमादेहार्धधारिणे ।
त्रिशूलधारिणे तुभ्यं भूतानां पतये नमः ॥६॥
गङ्गाधर नमस्तुभ्यं वृषभध्वज नमोऽस्तु ते ।
आशुतोष नमस्तुभ्यं भूयो भूयो नमो नमः ॥७॥

क्षमा-प्रार्थना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥१॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥२॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।।
त्राहि मां पार्वतीनाथ सर्वपापहरो भव ॥३॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्य भावेन रक्षमां परमेश्वर ॥४॥
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या च गुरुस्त्वमेव,
त्वमेव सर्वं मम देव देव ।।५॥


अनेन यथाशक्तिकृतेन पूजनेन श्रीसाम्बसदाशिवः प्रीयतां न मम ।


✹✹✹ इति शिव पार्थिव पूजन ✹✹✹


एक टिप्पणी भेजें

आस्था दरबार से जुड़ने के लिए धन्यवाद ||
||जय श्री राधे ||

और नया पुराने

Recent Posts